महाभारतम्
अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात्। ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया
यथायथा विक्रमते यथारिमधितिष्ठति। तथातथा समासाद्य पाण्डवं काममोहिता
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी। ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी। सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम्
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम्।' वृजिने तारयिष्यामि दासीवच्च नरर्षभाः
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव। यूयं प्रसादं कुरुत भीमसेनो भजेत माम्
एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति। भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा।' आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित्
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता। आपत्सु यो धारयति स वै धर्मविदुत्तमः
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते। पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम्
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते। `महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः। तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः
दिव्यज्ञानेन जानामि व्यतीतानागतानहम्। तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम्
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ। श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम्
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ। धार्तराष्ट्राद्विवासं च दहनं वारणावते
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा। आवासे शालिहोत्रस्य स वो वासं विधास्यति
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः। पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः। कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत्
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै। भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे। `नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्। भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे
अहस्सु विहरानेन यथाकामं मनोजवा। अयं त्वानयितव्यस्ते भीमसेनः सदा निशि
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः। एवं रमस्व भीमेन यावद्गर्भस्य वेदनम्
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया। नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा। भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी। शालिहोत्रसरो रम्यमाससाद जलार्थिनी
वनस्पतितलं गत्वा परिमृज्य गृहं यथा। पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा