अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव। बलमाहारयामास यद्वायोर्जगतः क्षये
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः। अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा
इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम्। भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि
क्षेममद्य करिष्यामि यथा वनमकण्टकम्। न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले। बाहुभ्यामवपीड्याशु पशुमारममारयत्
स मार्यमाणो भीमेन ननाद विपुलं स्वनम्। पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः। `समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत्
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत्। तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम्
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ। प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा। हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः
हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे। अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम्। भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम्।' अभिपूज्य महात्मानं भीमं भीमपराक्रमम्। पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्
अदूरे नगरं मन्ये वनादस्मादहं विभो। शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः। प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः। अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम्। अभिपूज्य ततः सर्वान्भीमसेनमभाषत
अहं ते दर्शादेव मन्मथस्य वशं गता। क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम्। अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम्
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्। हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः। शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम्। रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः। युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्। तदिदं मामनुप्राप्तं भीमसेनकृते शुभे
सोढं तत्परमं दुःखं मया कालप्रतीक्षया। सोऽयमभ्यागतः कालो भविता मे सुखोदयः
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा। वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी। प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि। मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा
भर्त्राऽनेन महाभागे संयोजय सुतेन ह। समुपादाय गच्छेयं यथेष्टं देवरूपिणम्। पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे