चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः। स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्
स तेन मम कान्तेन तव पुत्रेण धीमता। बलादितो विनिष्पिष्य व्यपनीतो महात्मना
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्। पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः। अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्। काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः। दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ। बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च। उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम्। समेतं भीमरूपेण रक्षसा श्रमकर्शिताः
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम्। नकुलः सहदेवश्च मातरं गोपयिष्यतः
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया। न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः
भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः। अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः। जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ
पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा। क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः
किमेनन चिरं भीम जीवता पापरक्षसा। गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते। रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्। पुरा विकुरुते मायां भुजयोः सारमर्पय
माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया। रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम्
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि। आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम्
अथवा त्वहमेवैनं हनिष्यामि वृकोदर। कृतकर्मा परिश्रान्तः साधु तावदुपारम
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव। बलमाहारयामास यद्वायोर्जगतः क्षये
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः। अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा
इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम्। भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि
क्षेममद्य करिष्यामि यथा वनमकण्टकम्। न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले। बाहुभ्यामवपीड्याशु पशुमारममारयत्
स मार्यमाणो भीमेन ननाद विपुलं स्वनम्। पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः। `समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत्
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत्। तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम्
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ। प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः