तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः। वेगेन प्रहितं बाहुं निजग्राह हसन्निव
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह। तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः। भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्
पुनर्भीमो बलादेनं विचकर्ष महाबलः। मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति
हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान्। पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा। हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा। मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ
पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ। स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः। बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम्। पुरा देवासुरे युद्धे वृत्रवासवयोरिव
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा। सालतालतमालाम्रवटार्जुनविभीतकान्
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान्। एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान्
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे। यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम्
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा। ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान्
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ। चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ
तद्वनं परितः पञ्चयोजनं निर्महीरुहम्। निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम्
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः। मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम्
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम्। उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम्
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम्। पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम्। बाहुयुद्धमभूद्धोरं बलिवासवयोरिव। युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम्
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः। सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम्
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्। विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा। उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः
कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि। केन कार्येण संप्राप्ता कुतश्चागमनं तव
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः। आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि
यदेतत्पश्यसि वनं नीलमेघनिं महत्। निवासो राक्षसस्यैष हिडिम्बस्य ममैव च
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि। भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता
क्रूरबुद्धेरहं तस्य वचनादागता त्विह। अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्
ततोऽहं सर्वभूतानां भावे विचरता शुभे। चोदिता तव पुत्रार्थं मन्मथेन वशानुगा
ततो वृतो मया भर्ता तव पुत्रो महाबलः। अपनेतुं च यतितो न चैव शकितो मया