एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः। वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम्। रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः। भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत्
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव। भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत्
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः। मामासादय दुर्बुद्धे तरसा त्वं नराशन
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि। विशेषतोऽनपकृते परेणापकृते सति
न हीयं स्ववशा बाला कामयत्यद्य मामिह। चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर। त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामयत्यद्य मां भीरुस्तव नैषापराध्यति। अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि। संगच्छस्व मया सार्धमेकेनैको नराशन
अहमेको गमिष्यामि त्वामद्य यमसादनम्। अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम्। कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा। कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्। पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान्
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत्। द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्
निराबाधास्त्वयि हते मया राक्षसपांसन। वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः
गर्जितेन वृथा किं ते कत्थितेन च मानुष। कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्। ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्। एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि। हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः। अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम्
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः। वेगेन प्रहितं बाहुं निजग्राह हसन्निव
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह। तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः। भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्
पुनर्भीमो बलादेनं विचकर्ष महाबलः। मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति
हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान्। पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा। हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा। मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ
पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ। स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः। बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम्। पुरा देवासुरे युद्धे वृत्रवासवयोरिव