लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः। मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत्। उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन्
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः। न बिभेति हिडिम्बी च प्रेषिता किमनागता
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम्। हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः। साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु
अहं कामगमा वीर रक्षोबलसमन्विता। आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप। सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते। अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे
नायं प्रतिबलो भीरु राक्षसापसदो मम। सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ। ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने। माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्। दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः
तथा संजल्पतस्तस्य भीमसेनस्य भारत। वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः। स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम्
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम्। सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम्
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्। पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम। उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः। न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि। पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम। एष तानद्य वै सर्वान्हनिष्यामि त्वया सह
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः। वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम्। रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः। भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत्
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव। भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत्
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः। मामासादय दुर्बुद्धे तरसा त्वं नराशन
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि। विशेषतोऽनपकृते परेणापकृते सति
न हीयं स्ववशा बाला कामयत्यद्य मामिह। चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर। त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामयत्यद्य मां भीरुस्तव नैषापराध्यति। अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि। संगच्छस्व मया सार्धमेकेनैको नराशन