एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः। अनिविष्टो हि तन्नाहं परिविद्यां कथंचन
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि। परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्। मातरं च नरो गच्छेत्कामार्त इव मद्विधः
एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप। सोदरानुत्सृजैनांस्त्वमारोह जघनं मम
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि। यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय। मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि। न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्। न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु। तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः। अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः। मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत्। उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन्
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः। न बिभेति हिडिम्बी च प्रेषिता किमनागता
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम्। हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः। साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु
अहं कामगमा वीर रक्षोबलसमन्विता। आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप। सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते। अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे
नायं प्रतिबलो भीरु राक्षसापसदो मम। सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ। ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने। माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्। दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः
तथा संजल्पतस्तस्य भीमसेनस्य भारत। वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः। स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम्
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम्। सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम्
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्। पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम। उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः। न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि। पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम। एष तानद्य वै सर्वान्हनिष्यामि त्वया सह