कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम। नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम्
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्। मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः। `निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता।' सा कामरूपिणी रूपं कृत्वा मदनमोहिता
उपतस्थे महात्मानं भीमसेनमनिन्दिता। `इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः
विनम्यमानेव लता दिव्याभरणभूषिता। शनैः शनैश्च तां भीमः समीपमुपसर्पतीम्
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम्। चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम्
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम्। दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः। समीपमुपसंप्राप्य भीमं साथ वरानता
वचो वचनवेलायां भीमं प्रोवाच भामिनी।' लज्जया नम्यमानेव सर्वाभरणभूषिता
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्। कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ
क इमे शेरते चेह पुरुषा देवरूपिणः। केयं वै बृहती श्यामा सुकुमारी तवानघ
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा। नेदं जानीथ गहनं वनं राक्षससेवितम्
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा। बिभक्षयिषता मांसं युष्माकममरोपमाः
साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम्। नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर। कामोपहतचित्तां हि भजमानां भजस्व माम्
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात्। वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ
इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः। त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च। अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह
एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः। अनिविष्टो हि तन्नाहं परिविद्यां कथंचन
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि। परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्। मातरं च नरो गच्छेत्कामार्त इव मद्विधः
एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप। सोदरानुत्सृजैनांस्त्वमारोह जघनं मम
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि। यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय। मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि। न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्। न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु। तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः। अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्