तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः। कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन। नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते। नन्वद्य ससुतामात्यं सकर्णानुजसौबलम्
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम्। किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः
धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः। एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः
करं करेण निष्पिष्य निःश्वसन्दीनमानसः। पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः। विश्वस्तानिव संविष्टान्पृथग्जनसमानिव
नातिदूरेण नगरं वनादस्माद्धि लक्षये। जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम्
प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः। इति भीमो व्यवस्यैव जजागार स्वयं तदा
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः। अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः
क्रूरो मानुषमांसादो महावीर्यपराक्रमः। प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः
दष्ट्राकरालवदनः करालो भीमदर्शनः। लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः। यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः। पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्। जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च
हृष्टो मानुषमांसस्य महाकायो महाबलः। आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम्। जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात्
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः। देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि। उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः। मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्। अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः। भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः। नृत्याव सहितावावां दत्ततालावनेकशः
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने। भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी
आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति।' जगाम तत्र यत्र स्म शेरते पाण्डवा वने
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह। शयानान्भीमसेनं च जाग्रतं त्वपराजितम्
उपास्यमानान्भीमेन रूपयौवनशालिनः। सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान्
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः। रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम्
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम्। राक्षसी कामयामास रूपेणाप्रतिमं भुवि
अन्तर्गतेन मनसा चिन्तयामास राक्षसी'। अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः