अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि। धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा। निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम्। कारुण्येन मनस्तप्तं गमनायोपचक्रमे
ततो भीमो वनं घोरं प्रविश्य विजनं महत्। न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः। पानीयं मृगयामीह तावद्विश्रम्यतामिह
एते रुवन्ति मधुरं सारसा जलचारिणः। ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत। जगाम तत्र यत्र स्म सारसा जलचारिणः
अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम्।' स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः। उत्तरीयेण पानीयमानयामास भारत
पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक्।' गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति। शोकदुःखपरीतात्मा निशश्वासोरगो यथा
स सुप्तां मातरं `भ्रातॄन्निद्राविद्रावितौजसः। महारौद्रे वने घोरे वृक्षमूले सुशीतले
विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान्। ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते
अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान्। दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः
भृशं शोकपरीत्मा विललाप वृकोदरः
अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति। यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक्
शयनेषु परार्ध्येषु ये पुरा वारणावते। नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः। कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम्
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः। तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम्
सुकुमारतरामेनां महार्हशयनोचिताम्। शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम्
धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान्। सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम्। योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले
त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः। सो।़यं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम्
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः। शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम्
अश्विनाविव देवानां याविमौ रूपसंपदा। तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले
ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः। स जीवेत सुखं लोके ग्रामद्रुम इवैकजः
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः। चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः
येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः। ते जीवन्ति सुखं लोके भवन्ति च निरामयाः
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः। जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव
वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना। `राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै
दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना।' विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात्