दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः। धर्मराजं समासाद्य संन्यासं समरोचयत्
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्। अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्
श्लोकानां विंशतिश्चव संख्याता तत्त्वदर्शिना। महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः। द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्। यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने
ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्। यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्। एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्। प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना। तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः। स्वर्गं प्राप्तःसच तथा यातनाविपुला भृशम्
देवदूतेन नरकं यत्र व्याजेन दर्शितम्। शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः
निदेशे वर्तमानानां देशे तत्रैव वर्तताम्। अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्। स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह। एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता
अध्यायाः पञ्च संख्याताः पर्वम्यस्मिन्महात्मना। श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा। अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्। दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च
खिलेषु हरिवंशे च संख्यातानि महर्षिणा। एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः
अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया। तन्महादारुणं युद्धमहान्यष्टादशाभवत्
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः। न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्। कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते। पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव
इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः। पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः। अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः। इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्
इदं कविवरैः सर्वैराख्यानमुपजीव्यते। उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः
अस्य काव्यस्य कवयो न समर्था विशेषणे। साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्