अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः। सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः। जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम्
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः। द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि। स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा। शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा
तेन विक्रममाणेन ऊरुवेगसमीरितम्। वनं सवृक्षविटपं व्याघूर्णितमिवाभवत्
जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा। आवर्जितालतावृक्षं मार्गं चक्रे महाबलः
स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन्। अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान्
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान्। त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट्
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः। भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत
असकृच्चापि सतीर्य दूरपारं भुजप्लवैः। पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा
कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम्। अवहत्स तु पृष्ठेन रोधःसु विषमेषु च
अगमच्च वनोद्देशमल्पमूलफलोदकम्। क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः। अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः। भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः। नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया
न्यविशन्ति हि ते सर्वे निरास्वादे महावने। `रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम्।' ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत्
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता। तृष्णया हि परीताऽहमनाथेव महावने
इतः परं तु शक्ताहं गन्तुं च न पदात्पदम्। शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम्
शृणु भीम वचो मह्यं तव बाहुबलात्पुरः। स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत
अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि। धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा। निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम्। कारुण्येन मनस्तप्तं गमनायोपचक्रमे
ततो भीमो वनं घोरं प्रविश्य विजनं महत्। न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः। पानीयं मृगयामीह तावद्विश्रम्यतामिह
एते रुवन्ति मधुरं सारसा जलचारिणः। ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत। जगाम तत्र यत्र स्म सारसा जलचारिणः
अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम्।' स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः। उत्तरीयेण पानीयमानयामास भारत
पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक्।' गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति। शोकदुःखपरीतात्मा निशश्वासोरगो यथा