श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः। देशं कालं समाज्ञाय विदुरः प्रत्यभाषत
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते। न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत। क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम्
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः। मन्दंमन्दमुवाचेदं विदुरं संगमे नृप
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः। कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात्। जननी गरुडेनेव कुरवस्ते समुद्धृताः
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम्। आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च। विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम्। तं जिघांसुरहं चापि तेषामनुमते स्थितः
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते। पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात्
ततः खनकमाहूय सुरङ्गं वै बिलं तदा। सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः। ततस्तु नावमारोप्य सहपुत्रां पृथामहम्
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम्। तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः। अग्निहादान्महाघोरान्मया तस्मादुपायतः
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः। प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः। विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम्
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः। भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत्। दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम्
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया। वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम्। कुरुभिः सहितो राजन्नागरैश्च पितामहः
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः। सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः। जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम्
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः। द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि। स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा। शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा
तेन विक्रममाणेन ऊरुवेगसमीरितम्। वनं सवृक्षविटपं व्याघूर्णितमिवाभवत्
जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा। आवर्जितालतावृक्षं मार्गं चक्रे महाबलः
स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन्। अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान्
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान्। त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट्
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः। भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत