मात्रा सहैव कौरव्यः कथं कालवशं गतः। पालितः सुचिरं कालं फलकाले यथा द्रुमः
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः। यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः। यच्च सा वनवासेन तन्माता दुःखभागिनी
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम्। यच्च सा वनवासेन तन्माता दुःखभागिनी
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु। अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा। मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः। अवधूय च मे देहं हृदयेन विदीर्यते
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा। मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः। प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान्। अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः। ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम्
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान्। पुरन्दरसमो जिष्णुः कथं कालवशं गतः
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ। मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम्। हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम्
वारणावतयात्रायां के स्युर्वै शकुनाः पथि। एवमल्पायुषो लोके भविष्यन्ति पृथासुताः
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे। ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम। मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः। कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः। क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून्
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ। मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः। देशं कालं समाज्ञाय विदुरः प्रत्यभाषत
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते। न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत। क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम्
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः। मन्दंमन्दमुवाचेदं विदुरं संगमे नृप
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः। कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात्। जननी गरुडेनेव कुरवस्ते समुद्धृताः
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम्। आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च। विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम्। तं जिघांसुरहं चापि तेषामनुमते स्थितः
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते। पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात्