विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम्। तेनायं विधिना सृष्टः कुटिलः कपटाशयः
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः। लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति। सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत्
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान्। सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ। हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः। न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम्। परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः
सर्वथा विकृतं तत्तु यदि ते निधनं गताः। धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः। सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः। आत्मानमुपमां कृत्वा परेषां वर्तते तु यः
मात्रा सहैव कौरव्यः कथं कालवशं गतः। पालितः सुचिरं कालं फलकाले यथा द्रुमः
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः। यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः। यच्च सा वनवासेन तन्माता दुःखभागिनी
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम्। यच्च सा वनवासेन तन्माता दुःखभागिनी
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु। अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा। मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः। अवधूय च मे देहं हृदयेन विदीर्यते
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा। मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः। प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान्। अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः। ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम्
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान्। पुरन्दरसमो जिष्णुः कथं कालवशं गतः
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ। मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम्। हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम्
वारणावतयात्रायां के स्युर्वै शकुनाः पथि। एवमल्पायुषो लोके भविष्यन्ति पृथासुताः
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे। ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम। मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः। कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः। क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून्
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ। मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत