विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः। वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः। पुनरूचुर्महावीर्यं भीमसेनमिदं वचः
इतः कष्टतरं किं नु यद्वयं गहने वने। दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः। तं च पापं न जानीमो दग्धो वाथ पुरोचनः
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः। शीघ्रमस्मानुपादाय तथैव व्रज भारत
त्वं हि नो बलवानेको यथा सततगस्तथा। इत्युक्तो धर्मराजेन भीमसेनो महाबलः। आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः। तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः। जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्
नूनं दुर्योधनेनेदं विहितं पापकर्मणा। पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः। दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान्
नूनं शान्तनवोऽपीह न धर्मनुवर्तते। द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः
नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः। श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान्। नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम्
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने। संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्। निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी। पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः
खनकेन तु तेनैव वेश्म शोधयता बिलम्। पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः। पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्। विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः। अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः। तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्। सत्कारयन्तु तान्वीरान्कुन्तीं राजसुतां च ताम्
ये च तत्र मृतास्तेषां सुहृदः सन्ति तानपि। कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च
मम दग्धा महात्मानः कुलवंशविवर्धनाः
एवं गते मया शक्यं यद्यत्कारयितुं हितम्। पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः। धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः
एकवस्त्रा निरानन्दा निराभरणवेष्टनः। उदकं कर्तुकामा वै पाण्डवानां महात्मनाम्
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः। उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः। हा युधिष्ठिर कौरव्य हा भीम इति चापरे
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे। कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान्। विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः