विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत्। गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः। चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम्। युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम्
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी। मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान्। नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः। अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत्
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः। तारयामास राजेन्द्र गङ्गां नावा नरर्षभान्
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः। जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः। गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः
ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम्। जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः। वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः। पुनरूचुर्महावीर्यं भीमसेनमिदं वचः
इतः कष्टतरं किं नु यद्वयं गहने वने। दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः। तं च पापं न जानीमो दग्धो वाथ पुरोचनः
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः। शीघ्रमस्मानुपादाय तथैव व्रज भारत
त्वं हि नो बलवानेको यथा सततगस्तथा। इत्युक्तो धर्मराजेन भीमसेनो महाबलः। आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः। तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः। जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्
नूनं दुर्योधनेनेदं विहितं पापकर्मणा। पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः। दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान्
नूनं शान्तनवोऽपीह न धर्मनुवर्तते। द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः
नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः। श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान्। नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम्
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने। संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्। निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी। पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः
खनकेन तु तेनैव वेश्म शोधयता बिलम्। पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः। पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्। विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः। अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः। तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः