सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला। सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप। अथ प्रवाते तुमुले निशि सुप्ते जने तदा
तदुपादीपयद्भीमः शेते यत्र पुरोचनः। ततो जतुगृहद्वारं दीपयामास पाण्डवः
समन्ततो ददौ पश्चादग्निं तत्र निवेशने। `पूर्वमेव गृहं शोध्य भीमसेनो महामतिः
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम्। दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः।' ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः। ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः। तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना। गृहमात्मविनाशाय कारितं दाहितं च तत्
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा। यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत्
दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः। अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्
एवं ते विलपन्ति स्म वारणावतका जनाः। परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः। बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः। न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः। जगाम भ्रातॄनादाय सर्वान्मातरमेव च
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्। पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्। स जगामाशु तेजस्वी वातरंहा वृकोदरः
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः। विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम्
आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम्। गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम्
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने। जनन्या सह कौरव्याननयज्जाह्नवीतटम्
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः। ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा। पार्थानां दर्शयामास मनोमारुतगामिनीम्
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्। शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम्
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम्। युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। न हन्तीत्येवमात्मानं यो रक्षति स जीवति। `बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा
तेन मां प्रेषितं विदिधि विश्वस्तं संज्ञयाऽनया। भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्। `अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे। शकुनिं चैव कौन्तेय विजेताऽसि न संशयः
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम्। निषादाधिपतिं वीरं दाशं परमधार्मिकम्
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान्। ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम्
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत्। विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा