समृद्धमायुधागारमिदं तस्य दुरात्मनः। वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्। प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा। पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः। परिखामुत्किरन्नाम चकार च महाबिलम्
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्। कपाटयुक्तमज्ञातं समं भूम्याश्च भारत
पुरोचनभयादेव व्यदधात्संवृतं मुखम्। स तस्य तु गृहद्वारि वसत्यशुभधीः सदा। तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्। विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः
न चैनानन्वबुध्यन्त नरा नगरवासिनः। अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्। विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः
स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना। प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने
तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः। चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः। भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित्
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः। वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्। षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्। चक्रे निशि महाराज आजग्मुस्तत्र योषितः
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत। जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम्
पुरोचनप्रणिहिता पृथां या सेवते सदा। निषादी दुष्टहृदया नित्यमन्तरचारिणी
निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया। पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह
आनीय मधुमूलानि फलानि विविधानि च। अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता। सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला। सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप। अथ प्रवाते तुमुले निशि सुप्ते जने तदा
तदुपादीपयद्भीमः शेते यत्र पुरोचनः। ततो जतुगृहद्वारं दीपयामास पाण्डवः
समन्ततो ददौ पश्चादग्निं तत्र निवेशने। `पूर्वमेव गृहं शोध्य भीमसेनो महामतिः
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम्। दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः।' ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः। ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः। तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना। गृहमात्मविनाशाय कारितं दाहितं च तत्
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा। यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत्