आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः। प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि
सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ। किं तैर्न पातितो भूप तदा किं मृतवानहम्
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः। अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम्
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम। यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम्। किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात्
सान्त्ववादेन दानेन भेदेनापि यतामहे। अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत्। दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत्
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये। अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः
यदि विन्देत चाकारमस्माकं स पुरोचनः। क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः। तथा हि वर्तते मन्दः सुयोधनवशे स्थितः
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः। कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः। धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः
उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः। कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि। स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः। हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्
तदस्माभिरिमं पापं तं च पापं सुयोधनम्। वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित्
ते वयं मृगयाशीलाश्चराम वसुधामिमाम्। तथा नो विदिता मार्गा भविष्यन्ति पलायतां
भौमं च बिलमद्यैव करवाम सुसंवृतम्। गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः। पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्। विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्। पाण्डवानां प्रियं कार्यमिति किं करवाणि वः
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया। त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः। भवनस्य तव द्वारि प्रदास्यति हुताशनम्
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः। इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्। न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि। भवतश्च यथा तस्य पालयास्मान्यथा कविः
इदं शरणमाग्नेयं मदर्थमिति मे मतिः। पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः। अस्मानपि च पापात्मा नित्यकालं प्रबाधते
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्। अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः