यदीदं गृहामाग्नेयं विहितं मन्यते भवान्। तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्
दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे। अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु
अद्यप्रभृति चास्मासु गतेषु भयविह्वलः। रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः
तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे। तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम्
अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः। अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम्
धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते। तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप
आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः। मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः
बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा। अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः
तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप। अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः
क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर। किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम्
आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः। प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि
सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ। किं तैर्न पातितो भूप तदा किं मृतवानहम्
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः। अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम्
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम। यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम्। किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात्
सान्त्ववादेन दानेन भेदेनापि यतामहे। अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत्। दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत्
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये। अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः
यदि विन्देत चाकारमस्माकं स पुरोचनः। क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः। तथा हि वर्तते मन्दः सुयोधनवशे स्थितः
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः। कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः। धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः
उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः। कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि। स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः। हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्
तदस्माभिरिमं पापं तं च पापं सुयोधनम्। वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित्
ते वयं मृगयाशीलाश्चराम वसुधामिमाम्। तथा नो विदिता मार्गा भविष्यन्ति पलायतां
भौमं च बिलमद्यैव करवाम सुसंवृतम्। गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः। पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्। विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्