अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्। श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः। आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः। विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम्। पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा। अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव। त्वया च स तथेत्युक्तो जानीमो न च तद्वयम्
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च दोषवत्। श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत्। पन्थानो वेदितव्याश्च नक्षत्रैश्च तथा दिशः। `कुड्याश्चविदिताःकार्याःस्याच्छुद्धिरितिचाब्रवीत्
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत्। विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते। वारणावतमासाद्य ददृशुर्नागरं जनम्
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्। सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः
श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः। अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा
ते समासाद्य कौन्तेयान्वारणावतका जनाः। कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः। विबभौ देवसङ्काशो वज्रपाणिरिवामरैः
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ। अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम्
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान्। ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु
नगराधिकृतानां च गृहाणि रथिनां वराः। उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ। जग्मुरावसथं पश्चात्पुरोचनपुरःसराः
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च। आसनानि च मुख्यानि प्रददौ स पुरोचनः
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः। उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः
दशरात्रोषितानां तु तत्र तेषां पुरोचनः। निवेदयामास गृहं शिवाख्यमशिवं तदा
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः। पुरोचनस्य वचनात्कैलासमिव गुह्यकाः
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः। उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्। कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप
शणसर्जरसं व्यक्तमानीय गृहकर्मणि। मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम्
तृणबल्वजकार्पासवंशदारुकटान्यपि। आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि। विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः। इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा
आपदं तेन मां पार्थ स संबोधितवान्पुरा। ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम्। अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः