आसनानि च दिव्यानि यानानि शयनानि न। निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता
यथा च तन्न जानन्ति नगरे वारणावते। `यथा रमेरन्विस्रब्धा नगरे वारणावते।' तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः
ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान्। अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति। न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित्
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः। प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः। यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः
तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत्
पाण्डवास्तु रथान्युक्तान्सदश्वैरनिलोपमैः। आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः। अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः। समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम्। प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम्
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः। पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा। दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः
विषमं पश्यते राजा सर्वथा स सुमन्दधीः। कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति
न हि पापमपापात्मा रोचयिष्यति पाण्डवः। भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः
कुत एव महात्मानौ माद्रीपुत्रौ करिष्यतः। तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यति
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते। विवास्यमानानस्थाने नगरे योऽभिमन्यते
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा। विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति। राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात्। गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः। उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः। अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम्
भवन्तः सुहृदोऽस्माकं यात कृत्वा प्रदक्षिणम्। प्रतिनन्द्य तथाऽऽशीर्भिर्निवर्तध्वं यथागृहम्
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते। तदा करिष्यथास्माकं प्रियाणि च हितानि च
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम्। आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि
पौरेषु विनिवृत्तेषु विदुरः सर्वधर्मवित्। बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत्
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः। यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम्। विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा
अलोहं निशितं शस्त्रं शरीपरिकर्तनम्। यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। न दहेदिति चात्मानं यो रक्षति स जीवति
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः। नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः