कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः। सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः। रक्षणे व्यवहारे च राज्यस्य सततं हिते
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः। रमणीयतमं लोके नगरं वारणावतम्
ते ताता यदि मन्यध्वमुत्सवं वारणावते। सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः। प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः
कंचित्कालं विहृत्यैवमनुभूय परां मुदम्। इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ
निवसध्वं च तत्रैव संरक्षणपरायणाः। वैलक्षण्यं न वै तत्र भविष्यति परंतपाः
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः। आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्
ततो भीष्मं शान्तनवं विदुरं च महामतिम्। द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च। मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम्। `सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः।' युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा
रमणीये जनाकीर्णे नगरे वारणावते। सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत। आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः। प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः। मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः। कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्
धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत। दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान्
ततः सुबलपुत्रश्च कर्णदुर्योधनावपि। दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत। मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः
स पुरोचनमेकान्तमानीय भरतर्षभ। गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्
ममेयं वसुसंपूर्णा पुरोचन वसुन्धरा। यथैव भविता तात तथा त्वं द्रष्टुमर्हसि
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया। सहायो येन सन्धाय मन्त्रयेयं यथा त्वया
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर। निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्। उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना। वारणावतमद्यैव यथा यासि तया कुरु
तत्र गत्वा चतुःशालं गृहं परमसंवृतम्। नगरोपान्तमाश्रित्य कारयेथा महाधनम्
शणसर्जरसादीनि यानि द्रव्याणि कानिचित्। आग्नेयान्युत सन्तीह तानि तत्र प्रदापय
बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि।' सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया। मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय
शणं तैलं घृतं चैव जतु दारूणि चैव हि। तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः
लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च। लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय
यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः। आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान्। वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम्