यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्। भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः। विविधानां च दानानां फलयोगाः प्रकीर्तिताः
तथा पात्रविशेषाश्च दानानां च परो विधिः। आचारविधियोगश्च सत्यस्य च परा गतिः
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च। रहस्यं चैव धर्माणां देशकालोपसंहितम्
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्। भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया। ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्। सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः। चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः। चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र जग्मिवान्। सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च। अश्वमेधे महायज्ञे नकुलाख्यानमेव च
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्। अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्। यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः
धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह। यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता। यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्
लाकान्तरगतान्वीरानपश्यत्पुनरागतान्। ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः। यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी। ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्। एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया। सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना। अतः परं निबोधेदं मौसलं पर्व दारुणम्
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि। ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
आपाने पानकलिता दैवेनाभिप्रचोदिताः। एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ। नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्। दृष्ट्वा विपादमगमत्परां चार्तिं नरर्षभः
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः। ददर्श यदुवीराणामापाने वैशसं महत्
शरीरं वासुदेवस्य रामस्य च महात्मनः। संस्कारं लम्भयामास वृष्णीनां च प्रधानतः
सवृद्धबालमादाय द्वारवत्यास्ततो जनम्। ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्। नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्