शृणु विस्तरशो राजन्वदतो मे परन्तप। दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत। पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्। निपुणेनाभ्युपायेन नगरं वारणावतम्
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्। मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः। सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः
नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम्। निवेदयति नित्यं हि मम राज्यं धृतव्रतः
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः। गुणवान्लोकविख्यातः पौरवाणां सुसंमतः
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः। पितृपैतामाहाद्राज्यात्ससहायो विशेषतः
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम्। भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः। कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्
एवमेतन्मया तात भावितं दोषमात्मनि। दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः। अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते
स भवान्पाण्डवानाशु विवासयितुमर्हति। मृदुनैवाभ्युपायेन नगरं वारणावतम्
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति। तदा कुन्ती सहापत्या पुनरेष्यति भारत
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते। अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः। विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्
समा हि कौरवेयाणां वयं ते चैव पुत्रक। नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः
ते वयं कौरवेयाणामेतेषां च महात्मनाम्। कथं न वध्यतां तात गच्छाम जगतस्तथा
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः। यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः
कृपः शारद्वतश्चैव यत एतौ ततो भवेत्। द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः। न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम्
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय। वारणावतमद्यैव यथा यान्ति यथा कुरु
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्। शोकपावकमुद्भूतं कर्मणैतेन नाशय
वैशंपायन उवाच
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः। अर्थमानप्रदानाभ्यां संजहार सहानुजः। `युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम्
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः। कथयाञ्चक्रिरे रम्यं नगरं वारणावतम्
अयं समाजः सुमहान्रमणीयतमो भुवि। उपस्थितः पशुपतेर्नगरे वारणावते
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे। इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः
कथ्यमाने तथा रम्ये नगरे वारणावते। गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप
यदा त्वमन्यत नृपो जातकौतूहला इति। उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः
अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः। अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः