दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः। स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्। न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम्
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता। विभज्य देशकालौ च दैवं धर्मादयस्त्रयः। नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः। गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः। स वर्धमानो ग्रसते महान्तमपि संचयम्
आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम्
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत्। विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः। प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह। वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर
सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः। तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप। पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम्
एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः। धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ। दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्। दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्। आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः। पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्। ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः। धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्
इयं वारिपथे युक्ता तरङ्गपवनक्षमा। नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी। नावमारुह्य गङ्गायां प्रययौ भरतर्षभ
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः। धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि। कारणाभ्यागता दग्धा सह पुत्रैरनागसा
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः। वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः
अविज्ञाता महात्मनो जनानामक्षतास्तथा। जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः
ततस्तस्मिन्पुरे लोका नगरे वारणावते। दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः
प्रेषयामासू राजानं यथावृत्तं निवेदितुम्। संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः। तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन्
प्रेतकार्याणि च तथा चकार सह बान्धवैः। पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम। दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्। कीर्तयस्व यथावृत्तं परं कौतूहलं मम