प्रत्युत्थानासनाद्येन संप्रदानेन केनचित्। अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः। अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
चारः सुविहितः कार्य आत्मनश्च परस्य वा। पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्
उद्यानेषु विहारेषु देवतायतनेषु च। पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च। समवायेषु सर्वेषु सरित्सु च विचारयेत्
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः। स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्। आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः। आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित्
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च। अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति। अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता। अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा
कर्मणा येन केनैव मृदुना दारुणेन च। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्
न संशयमनारुह्य नरो भद्राणि पश्यति। संशयं पुनरारुह्य यदि जीवति पश्यति
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्। अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्। स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता। आकारमभिरक्षेत चारेणाप्यनुपालितः
न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः। प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत्। नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम्
शुकान्वा शारिका वापि बालमूर्खजडानपि। प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः। रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम्
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना। एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत्
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान्। षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते
निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम्। स्वमतं च परेषां च विचार्य च पुनःपुनः। गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्। नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्। परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम्
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम्। तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत्
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता। उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा। आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि
भीतवत्संविधातव्यं यावद्भयमनागतम्। आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्