भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा। लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा
एवं ते कथितं राजन् शृणु चाप्यपरं तथा
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः। रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः। विषेण मायया वापि नोपेक्षेते कथंचन। उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम्
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता। `न चैनं क्रोधसंदीप्तं विद्यात्कश्चित्कथंचन।' न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत। प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः। अथ तं प्रहरेत्काले तथा विचलितं पथि
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः। स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्। अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत्
प्रत्युत्थानासनाद्येन संप्रदानेन केनचित्। अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः। अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
चारः सुविहितः कार्य आत्मनश्च परस्य वा। पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्
उद्यानेषु विहारेषु देवतायतनेषु च। पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च। समवायेषु सर्वेषु सरित्सु च विचारयेत्
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः। स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्। आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः। आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित्
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च। अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति। अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता। अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा
कर्मणा येन केनैव मृदुना दारुणेन च। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्
न संशयमनारुह्य नरो भद्राणि पश्यति। संशयं पुनरारुह्य यदि जीवति पश्यति
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्। अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्। स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता। आकारमभिरक्षेत चारेणाप्यनुपालितः
न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः। प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत्। नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम्
शुकान्वा शारिका वापि बालमूर्खजडानपि। प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः