अङ्कुशं शोचमित्याहुरर्थानामुपधारणे। आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्। वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः
ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि। अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन्
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्। हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम्
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः। अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः। तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम्
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते। मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः। ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः। मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम्। स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः। स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः। ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः। अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत्। धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति। तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः। स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम्। एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः। शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत्
मृगमांसं न खादेयं गरमेतन्न रोचते। मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम्
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम्। ततः स्नात्वा स वै तत्र आजगाम वृको नपृ
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा। मृगराजो हि संक्रुद्धो न ते साधु भविष्यति
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्। एवं संचोदितस्तेन जम्बुकेन तदा वृकः
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः। एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह
तमुवाच महाराज नकुलं जम्बुको वने। स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः
मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम्
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्। न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत्
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः। खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात्। एवं समाचरन्नित्यं सुखमेधेत भूपतिः