विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम्। शोपकपावकमुद्धूतं कर्मणानेन नाशय
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः। धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्। कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम। तत्र मे निश्चिततमं सन्धिविग्रहकारणम्। कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव
दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि। कणिकं ह्युपसंगृह्य मन्त्रिणं सौबलस्य च
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा। प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम्। भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम्
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः। उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम्
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ। न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः। अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः
नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः। तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्। गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता। सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे
उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ। लोकश्चायं परश्चैव ततो धर्मं समाचरेत्
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः। तेनावमानमाप्नोति पापं चेह परत्र च
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः। तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम्
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः। राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान्
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम्। ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः। परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन। कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम्
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्। सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्
आपद्यापदि काले कुर्वीत न विचारयेत्। नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्। अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत्
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्। सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं
दया न तस्मिन्कर्तव्या शरणागत इत्युत। निरुद्विग्नो हि भवति न हताज्जायते भयम्
हन्यादमित्रं दानेन तथा पूर्वापकारिणम्। हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः। ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम्
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः। कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः। राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः। लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः