शरण्यः सर्वभूतानां देवदेवो जनार्दनः
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत्
स्वभावादगमच्छब्दो महीं सागरमेखलाम्। अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः। पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा। `अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि।' अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः। चित्रयोधी समाख्यातो बभूवातिरथोदितः
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे। अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्। सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः
अतीव बलसंपन्नः सदा मानि कुरून्प्रति। विपुलो नाम सौवीरः शस्तः पार्थेन धीमता
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्। सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः
भीमसेनसहायश्च रथानामयुतं च सः। अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्। धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः
यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः। तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह। भीमसेनो महाबाहुर्बलाद्बलवतां वरः
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः। धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान्। बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः। परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्। दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु। स चिन्तापरमो राजा न निद्रामलभन्निशि
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः। अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम्। उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा। कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा। कथयन्ति स्म संभूय चत्वरेषु सभासु च
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः। राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः। प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम्। अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्। सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्। युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे। ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत्
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः। पौरानुरागसंतप्तः पश्चादिदमभाषत