श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः। स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम्
न तेन भवतो युद्धं भविता नर्मतोऽपि वा। अपिचार्थे तव पुरा शक्रेण किल चोदितः
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात्। ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान्। भुवो भारापहरणे साहाय्यं ते करिष्यति
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो। इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः। जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम्। पालयामि त्वदंशं तं सर्वलोकमहाभुजम्
आवयोः सख्यसदृशं न च लोके भविष्यति। यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये। इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान्। न चेह भविता लोके तमेव शरणं व्रज
शरण्यः सर्वभूतानां देवदेवो जनार्दनः
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत्
स्वभावादगमच्छब्दो महीं सागरमेखलाम्। अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः। पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा। `अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि।' अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः। चित्रयोधी समाख्यातो बभूवातिरथोदितः
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे। अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्। सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः
अतीव बलसंपन्नः सदा मानि कुरून्प्रति। विपुलो नाम सौवीरः शस्तः पार्थेन धीमता
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्। सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः
भीमसेनसहायश्च रथानामयुतं च सः। अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्। धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः
यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः। तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह। भीमसेनो महाबाहुर्बलाद्बलवतां वरः
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः। धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान्। बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः। परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्। दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु। स चिन्तापरमो राजा न निद्रामलभन्निशि
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः। अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्