द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम्। यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित्
सदृशं कारये नैव सर्वप्रहरणे युधि। तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः। नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः। कृष्णः कमलपत्राक्षः कंसकालियसूदनः
स जेता सर्वलोकानां सर्वप्रहरणायुधः। नैतावता ते पार्थाहं भवाम्यनृतवागिह
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम्। तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे। स एव कर्ता भोक्ता च संहर्ता च जगन्मयम्
स एव भूतं भव्यं च भवच्च पुरुषः परः। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः
प्रादुर्भवति योगात्मा पालनार्थं स लीलया। तत्तुल्यो हि न जायेत न जातो न जनिष्यते
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता। को हि तं जेतुमीहेत जानन्नात्महितं नरः
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः। स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम्
न तेन भवतो युद्धं भविता नर्मतोऽपि वा। अपिचार्थे तव पुरा शक्रेण किल चोदितः
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात्। ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान्। भुवो भारापहरणे साहाय्यं ते करिष्यति
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो। इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः। जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम्। पालयामि त्वदंशं तं सर्वलोकमहाभुजम्
आवयोः सख्यसदृशं न च लोके भविष्यति। यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये। इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान्। न चेह भविता लोके तमेव शरणं व्रज
शरण्यः सर्वभूतानां देवदेवो जनार्दनः
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत्
स्वभावादगमच्छब्दो महीं सागरमेखलाम्। अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः। पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा। `अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि।' अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः। चित्रयोधी समाख्यातो बभूवातिरथोदितः
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे। अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्। सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः
अतीव बलसंपन्नः सदा मानि कुरून्प्रति। विपुलो नाम सौवीरः शस्तः पार्थेन धीमता
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्। सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः