कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान्। स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः। राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम्
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम्। द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च
धृतराष्ट्रस्तु राजन्द्रे यदा कौरवनन्दनम्। युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः। ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव। स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः। पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः। संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले। पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा। क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित्
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्। लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः। ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा। अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः। तपसा यन्मया प्राप्तममोघमशनिप्रभम्
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि। ददता गुरुणा चोक्तं न मनुष्येष्विदंत्वया
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे। यद्यदन्तर्हितं भूतं किंचिद्युद्ध्येत्त्वया सह
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे। त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते। आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः। युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। उपसंगृह्य चरणावुपतस्थे विनीतवत्
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम्। यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित्
सदृशं कारये नैव सर्वप्रहरणे युधि। तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः। नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः। कृष्णः कमलपत्राक्षः कंसकालियसूदनः
स जेता सर्वलोकानां सर्वप्रहरणायुधः। नैतावता ते पार्थाहं भवाम्यनृतवागिह
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम्। तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे। स एव कर्ता भोक्ता च संहर्ता च जगन्मयम्
स एव भूतं भव्यं च भवच्च पुरुषः परः। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः
प्रादुर्भवति योगात्मा पालनार्थं स लीलया। तत्तुल्यो हि न जायेत न जातो न जनिष्यते
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता। को हि तं जेतुमीहेत जानन्नात्महितं नरः