तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी। सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति
सुरकार्यमियं काले करिष्यति सुमध्यमा। अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम्
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्। न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः। कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा। तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी
न वै मदन्यां जननीं जानीयातामिमाविति। तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः। धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति। कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे। वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः। तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम्। कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान्
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम। कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात्। वनं गतो महाराजस्तपस्तेपे सुदारुणम्
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान्। तस्य संतप्यमानस्य वने मृगगणायुते
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात्। स तु राजा महातेजास्तपस्तीव्रं समाददे
कंचित्कालं वायुभक्षो निराहारस्तथैव च। तथैव तु महाबाहोर्वर्तमानस्य भारत
कालस्तस्य महाराज यातो वै नृपसत्तम। ततो नातिचिरात्काले वसन्ते कामदीपने
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे। नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः
नियमस्थश्च राजासीत्तदा भरतसत्तम। ततो नातिचिरात्काले वनं तन्मनुजेश्वर
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता। पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत्
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम्। दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम्। पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत्
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः। पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः। नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत। ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः। भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः
स कुमारस्ततो राजन्द्रोणेन सहितो वने। वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत
परया स मुदा युक्तो विचचार वने सुखम्। तस्यैवं वर्तमानस्य वने वनचरैः सह