ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम्। याजो द्रोणविनाशाय याजयामास तं नृपम्
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः। ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै। इह पुत्रो महावीर्यो महातेजा महाबलः। इष्यते यद्विधो राजन्भविता स तथाविधः
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः। आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि। कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा। याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्। कुमारश्च कुमारी च पितृवंशविवृद्धये
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च। न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम्। कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते। उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन्। वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा। जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत्
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते। भयापहो राजपुत्रः पाञ्चालानां यशस्करः
राज्ञः शोकापहो जात एष द्रोणवधाय हि। इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति। द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता। प्रत्याख्याते पृषत्या च याजके भरतर्षभ
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा। अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा। मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा। नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि। देवदानवयक्षाणामीप्सिता वरवर्णिनी
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी। सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति
सुरकार्यमियं काले करिष्यति सुमध्यमा। अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम्
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्। न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः। कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा। तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी
न वै मदन्यां जननीं जानीयातामिमाविति। तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः। धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति। कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे। वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्