येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव। उपयाज चरस्वैतत्प्रदास्यामि धनं तव
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम्
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा। ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा। ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने
अपरिज्ञातशौचायां भूमौ निपतितं फलम्। तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्
विमर्शं हि फलादाने नायं कुर्यात्कथंचन। नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान्
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत्। संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा। कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन्। भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः। एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्। जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्
भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह। गोशतानि ददान्यष्टौ याज याजय मां विभो
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम्। ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत्
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति। येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी। स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात्। क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः। द्रोणस्य शरजालानि रिपुदेहहराणि च
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा। स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम्
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः। कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः
सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम्। उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम्
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः। ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि। शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम्
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते। सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान्
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्। द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान्। तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम्
तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन्। गुर्वर्थ इति चाकाममुपयाजमचोदयत्
द्रुपदं च महाराजमिदं वचनमब्रवीत्। मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम्
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः