एवमुक्तः स तं द्रोणो मोक्षयामास भारत। सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी। द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्। हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्। अहिच्छत्रं च विषयं द्रोणः समभिपद्यत
एवं राजन्नहिच्छत्रा पुरीजनपदायुता। युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा। क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम्
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च। द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान्
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्। नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन्
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया। न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान्
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम्। प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च
कर्तुं प्रयतमानो वै न शशाक पराजयम्। अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन्
ब्राह्मणावसथं पुण्यमाससाद महीपतिः। तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ। याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ। अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ
स उपामन्त्रयामास सर्वकामैरतन्द्रितः। बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्। गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम्
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम्। अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे। कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा। उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम्
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव। उपयाज चरस्वैतत्प्रदास्यामि धनं तव
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम्
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा। ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा। ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने
अपरिज्ञातशौचायां भूमौ निपतितं फलम्। तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्
विमर्शं हि फलादाने नायं कुर्यात्कथंचन। नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान्
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत्। संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा। कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन्। भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः। एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा