हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी। स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे। स सत्यजितमालेक्य तथा विमुखमाहवे
वेगेन महता राजन्नभ्यधावत पार्षतम्। तदा चक्रे महद्युद्धमर्जुनो जयतां वरः
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्। पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः
तत उत्सृज्य तच्चापमाददानः शरावरम्। खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्। पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत्। ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः। सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा। ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः। मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्
भीमसेनस्तदा राजन्नर्जुनेन निवारितः। अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि। उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ
भग्नदर्पं हृतधनं तं तथा वशमागतम्। स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्
विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया। प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते
एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत्। मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम्
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह। तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप। वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि
अराजा किल नो राज्ञः सखा भवितुमर्हति। अतः प्रयतितं राज्ये यज्ञसेन मया तव
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे। सखायं मां विजानीहि पाञ्चाल यदि मन्यसे
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु। प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्
एवमुक्तः स तं द्रोणो मोक्षयामास भारत। सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी। द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्। हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्। अहिच्छत्रं च विषयं द्रोणः समभिपद्यत
एवं राजन्नहिच्छत्रा पुरीजनपदायुता। युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा। क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम्
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च। द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान्
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्। नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन्
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया। न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान्