पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः। गोपाल इव दण्डेन यथा पशुगणान्वने
चालयन्रथनागांश्च संचचाल वृकोदरः। भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः। हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन्। ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः। सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम्
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम्। सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत्। छादयन्निषुजालेन महता मोहयन्निव
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्। नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः
न दिशो नान्तरिक्षं च तदा नैव च मेदिनी। अदृश्यत महाराज तत्र किंचिन्न सङ्गरे
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः। तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः
सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः। ततः पाञ्चालराजस्तु तथा सत्यजिता सह
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा। महता शरवर्षेण पार्थः पाञ्चालमावृणोत्
ततो हलहलाशब्द आसीत्पाञ्चालके बले। जिवृक्षति महासिंहे गजानामिव यूथपम्
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः। पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत्
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ। व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः। विव्याध बवलद्गाढं तदद्भुतमिवाभवत्
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्। पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च। ततः सत्यजितश्चापं छित्वा राजानमभ्ययात्
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्। साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि। ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी। स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे। स सत्यजितमालेक्य तथा विमुखमाहवे
वेगेन महता राजन्नभ्यधावत पार्षतम्। तदा चक्रे महद्युद्धमर्जुनो जयतां वरः
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्। पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः
तत उत्सृज्य तच्चापमाददानः शरावरम्। खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्। पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत्। ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः। सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा। ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः। मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्