महाभारतम्
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः। शरजालेन महता मोहयन्कौरवीं चमूम्
तमुद्यतं रथेनैकमाशुकारिणमाहवे। अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम्। ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः
प्रावाद्यन्त महाराज पञ्चालानां निवेशने। सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम्
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान्। दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन्। सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत। दुर्योधनं विकर्णं च कर्णं चापि महाबलम्
नानानृपसुतान्वीरान्सैन्यानि विविधानि च। अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत्
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा। अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा। श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति। पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम्
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा। युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत्। सेनाग्रगो भीमसेनस्तदाभूद्गदया सह
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः। आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम्। भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः
प्रविवेश महासेनां मकरः सागरं यथा। `चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः। अहनत्कुञ्जरानीकं गदया कालरूपधृक्
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु। भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः। गजानश्वान्रथांश्चैव पातयामास पाण्डवः
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः। गोपाल इव दण्डेन यथा पशुगणान्वने
चालयन्रथनागांश्च संचचाल वृकोदरः। भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः। हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन्। ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः। सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम्
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम्। सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत्। छादयन्निषुजालेन महता मोहयन्निव
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्। नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः
न दिशो नान्तरिक्षं च तदा नैव च मेदिनी। अदृश्यत महाराज तत्र किंचिन्न सङ्गरे
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः। तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः