अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः। कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि। प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्। पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं
यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः। सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः। ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्। पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे
गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम्। घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च। द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्। पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः
कृतवर्मणा च सहितः कृपेण च निजघ्निवान्। यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः। पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः। द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता
कृतानशनसंकल्पा यत्र भर्तृनुपाविशत्। द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्। अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः। अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत्
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः। यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा। द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः
मणिं तथा समादाय द्रोणपुत्रान्महारथात्। पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्। अष्टादशास्मिन्नद्यायाः पर्वम्युक्ता महात्मना
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया। श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना
सौप्तिकैषीकसंबन्धे पर्वण्युत्तमतेजसी। अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा। सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः। पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता। गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः। राज्ञांतानि शरीराणि दाहयामास शास्त्रतः
तोयकर्मणि चारब्धे राज्ञामुदकदानिके। गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः