सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्। दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि। श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः
क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः। विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्
आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः। गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः
भवतां च यथा जन्म तदप्यागमितं मया। सकुण्डलं सकवचं सर्वलक्षणलक्षितम्। कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः। अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्। रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्। साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत्
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः। दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशांपते। भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत। कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्। पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव। भयमर्जुनसंजातं क्षिप्रमन्तरधीयत
स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाऽभ्यवदत्सुयोधनम्। युधिष्ठिरस्याप्यभवत्तदा मति- र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः। गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः
अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान्। भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत
इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम्। एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन्। भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत्। द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि। पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः। आचार्यधनदानार्थं द्रोणेन सहिता ययुः
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः। ममृदुस्तस्य नगरं द्रुपदस्य महौजसः
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः। दुःशासनो विकर्णश्च जलसन्धः सुलोचनः
एते चान्ये च बहवः कुमारा बहुविक्रमाः। अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः
ततो वरराथारूढाः कुमाराः सादिभिः सह। प्रविश्य नगरं सर्वे राजमार्गमुपाययुः
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम्। भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः। शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते
ततो रथेन शुभ्रेण समासाद्य तु कौरवान्। यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत्। दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम्
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्। एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः। अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः