यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति। तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्। अभिषेकस्य संभारान्समानीय द्विजातिभिः
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्। अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः। काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः। `स मौलिहारकेयूरः सहस्ताभरणाङ्गदः
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः।' सच्छत्रवालव्यजनो जयशब्दोत्तरेण च
उवाच कौरवं राजन्वचनं स वृषस्तदा। अस्य राज्यप्रदानस्य सदृशं किं ददानि ते
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप। अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्। हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः। विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः। कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः। पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम्
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः। अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः
तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः। भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्। कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम। श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः। गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत
ततो दुर्योधनः कोपादुत्पपात महाबलः। भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्। वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्
क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना। शूराणां च नदीनां च प्रभवो दुर्विभावनः
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्। दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि। श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः
क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः। विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्
आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः। गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः
भवतां च यथा जन्म तदप्यागमितं मया। सकुण्डलं सकवचं सर्वलक्षणलक्षितम्। कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः। अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्। रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्। साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत्
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः। दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशांपते। भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्