द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत। कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्। कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ। पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्। द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः। कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति
त्वमप्येवं महाबाहो मातरं पितरं कुलम्। कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम्
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा। वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्। बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये। सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति। तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्। अभिषेकस्य संभारान्समानीय द्विजातिभिः
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्। अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः। काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः। `स मौलिहारकेयूरः सहस्ताभरणाङ्गदः
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः।' सच्छत्रवालव्यजनो जयशब्दोत्तरेण च
उवाच कौरवं राजन्वचनं स वृषस्तदा। अस्य राज्यप्रदानस्य सदृशं किं ददानि ते
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप। अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्। हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः। विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः। कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः। पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम्
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः। अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः
तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः। भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्। कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम। श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः। गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत
ततो दुर्योधनः कोपादुत्पपात महाबलः। भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्। वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्
क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना। शूराणां च नदीनां च प्रभवो दुर्विभावनः