भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन्। अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः। क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम्
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः। सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्। पञ्चबाणानसंक्तान्संमुमोचैकबाणवत्
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि। निचखान महावीर्यः सायकानेकविंशतिम्
इत्येवमादि सुमहत्खड्गे धनुषि चानघ। गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत्
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत। मन्दीभूते समाजे च वादित्रस्य च निःस्वने
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः। वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते। किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप। द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ। पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम्। दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्
स तैस्तदा भ्रातृभिरुद्यतायुधै- र्गदाग्रपाणिः समवस्थितैर्वृतः। बभौ यथा दानवसंक्षये पुरा पुनन्दरो देवगणैः समावृतः
एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे।' दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः। स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः। तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः
प्रांशुः कनकतालाभः सिंहसंहननो युवा। असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्
स समाजजनः सर्वो निश्चलः स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः
असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्। ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा। यत्कृतं तत्र पार्थेन तच्चकार महाबलः
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत। कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद। अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे। द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा। कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत्
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव। दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम