ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः। विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्। गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः। विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्। गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः। त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्। ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ। अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ। बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ। चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः। न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे। पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः
जय हे कुरुराजेति जय हे भीम इत्युत। पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्। भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि। मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः
तत उत्थाय वेगेन अश्वत्थामा न्यवारयत्। गुरोराज्ञा भीम इति गान्धारे गुरुशासनम्। अलं शिक्षाकृतं वेगमलं साहसमित्युत
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ। युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्। निवार्य वादित्रगणं महामेघनिभस्वनम्
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः। ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा। बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः। सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत्। प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः। एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः। एष शीलवतां चापि शीलज्ञाननिधिः परः
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः। कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्। धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः। सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः। अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते। पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः
तस्मिन्प्रमुदिते रङ्गे कथंचित्प्रत्युपस्थिते। दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम्
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः। वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान्