क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा। न हीदृशं प्रियं मन्ये भविता धर्मवत्सल
ततो राजानमामन्त्र्य विदुरानुमतोपि हि। भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्
समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम्। तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ। रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः। रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः। विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा। `सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।' भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्
बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च। कुरूनन्यांश्च सचिवानादाय नगराद्बहिः
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्। शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्
गान्धारी च महाभागा कुन्ती च जयतां वर। स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा। ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्। क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च। महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्। शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह। नभो जलधरैर्हीनं साङ्गारक इवांशुमान्
व्यासस्यानुमते चक्रे बलिं बलवतां वरः। ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्
सुवर्णमणिरत्नानि वस्त्राणि विविधानि च। प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्। विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः। बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः
रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः। चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः। अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान्
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः। रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः। द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः। सज्यानि विविधाकाराः शरैः सन्धाय कौरवा
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन्
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः। चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्
केषांचित्तत्र माल्येषु शरा निपतिता नृप। केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः। बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे। मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः