मुहूर्तादिव तं द्रोणस्तथैव समभाषत। पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत। न तु वृक्षं भवन्तं वा पश्यामीति च भारत
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः। प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः। शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः। मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्
ततस्तस्य गस्थस्य क्षुरेण निशितेन च। शिर उत्कृत्य तरसा पातयामास पाण्डवः
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्। मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः। जगाम गङ्गामभितो मज्जितुं भरतर्षभ
अवगाढमथो द्रोणं सलिले सलिलेचरः। ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्। ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः। अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्
इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे। तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा। स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः। `सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत्
दुर्योधनं चित्रसेनं दुःशासनविविंशती। अर्जुनं च समानीय ह्यश्वत्थामानमेव च
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः। शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम्। शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी। पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम्। विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।' तथाब्रवीन्महात्मानं भारद्वाजो महारथम्
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्। अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन। जगद्विनिर्दहेदेतदल्पतेजसि पातितम्
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते। तद्धारयेथाः प्रयतः शृणु चेदं वचो मम
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन। तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे
तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः। जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः। भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत। दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः। गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम। ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना
यदानुमन्यसे कालं यस्मिन्देशे यथायथा। तथातथा विधानाय स्वयमाज्ञापयस्व माम्
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्। अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्